अथैष द्विरात्रः ।
प्रजाकामो हैतेन यजेत ।
तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्च ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्योभे बृहद्र थन्तरे सामनी भवतः ।
एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।
तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।
तस्य पञ्चविंशं ब्रह्मसाम भवति ।
पुरुषो वै पञ्चविंशः ।
यजमानकामो वा एष यद्ब्रह्मसाम ।
प्रजामेव तत्पुरुषतां गमयति ।
तस्य सप्त च शतानि विंशतिश्च स्तोत्र्या भवन्ति ।
तावन्तस्संवत्सरस्याहोरात्राः ।
अहोरात्रा वा इदं सर्वं प्रजनयन्ति ।
ते य इदं सर्वं प्रजनयन्ति ते मा प्रजनयानिति २०५