२०४

अवभृतादुदेत्य श्मश्रूण्येव वपते न केशान् ।

श्रीर्वै शिरः ।

शिर उ ह वै सुष्वाणस्य श्रीर्गच्छति ।

स यत्पुरा संवत्सरात्केशान्वपेत श्रियमेव वपेत न केशान् ।

अथ यदुपरिष्टात्संवत्सरस्य केशान्वपते संवत्सरेणैव तदात्मञ्श्रियं परिगृह्य केशानेव वपते न श्रियम् ।

तस्मादुपरिष्टादेव वपेत ।

सोऽतिरात्रो भवति ।

एतद्वै केशानां रूपं यदतिरात्रः ।

ये शुक्ला अह्नस्ते रूपं ये कृष्णा रात्र्यै ते ।

तस्मादतिरात्रो भवति ।

तस्यैते प्रतिलोमा भवन्ति ।

तदा श्रेयांसं वा एषोऽभ्यारोहति यस्सूयत इति ।

तस्यैकविंशं प्रातस्सवनं भवति ।

द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।

एष वै वरुणः ।

वरुणसव एष एतर्ह्यभ्यारोहति यो वै श्रेयांसमभ्यारुह्याथास्मै न निह्नुते यया वै स तमार्त्या कामयते तयैनं निनयति ।

तद्यदेते प्रतिलोमा स्तोमा भवन्ति निह्नवाना एवैतदपविजानानाः पुनरर्वाञ्चि स्तोमा आयन्ति ।

यो वै श्रेयांसमभ्यारुह्याथास्मै निह्नुते व्येहि मापक्रमीरिति वै स तमाह तद्यदाश्विनाः क्रतवः पुनरूर्ध्वा उद्यन्ति यथा निह्नवानं ब्रूयाद्व्येहि मापक्रमीरिति तादृक्तत् ।

तस्य रथन्तरं माध्यन्दिने भवति ।

इयं वै रथन्तरम् ।

अस्यामेवैतत्प्रतितिष्ठति २०४