सा पटरिणी भवति ।
पटरीव ह्यसावादित्यः ।
अथ यद्रुक्मो होतुर्भवति त्रीणि वा एतानि सम्यञ्चि सन्धीयन्ते ।
रुक्म आहवनीयोऽसावादित्यः ।
तद्यदेतानि सम्यञ्चि सन्धीयन्ते समृद्ध्या एव ।
समस्मा ऋध्यते य एवं वेद ।
अथ यत्प्राकाशावध्वर्योर्भवतो रूपेणेन्ततां आह्वयन्तीति वा आहुः ।
अथो यदेव तौ प्रकाशेनैव सो स्तत्त्प्रकाशैव चरतस्तत्तत्सलक्षम क्रियते ।
अथ यद्द्वादश पष्ठौहीर्ब्रह्मणे भवन्ति प्रजननं वै पष्ठौहीः प्रजननं ब्रह्मा तत्तत्सलक्ष्म क्रियते ।
अथ यद्धेनुर्मैत्रावरुणाय भवति पयस्या वै धेनुः पयस्याभाजसौ मित्रावरुणौ तत्तत्सलक्ष्म क्रियते ।
अथ यदृषभो ब्राह्मणाच्छंसिने भवत्यैन्द्रो वै ब्राह्मणाच्छंस्यैन्द्र ऋषभस्तत्तत्सलक्ष्म क्रियते ।
अथ यद्वाससी नेष्टापोत्रोर्भवतो मारुते वै वाससी मारुतौ नेष्टापोतारौ तत्तत्सलक्ष्म क्रियते ।
अथो भूमा वै मरुतो भूमा तन्तुभिर्वासः ।
अथ यत्स्थूरि यवाचितमच्छावाकाय भवति धीतेव ह वा एषा होत्रा यातयाम्नी यदच्छावाकीया ।
तामेतैरेव यवैराप्याययन्ति ।
तत्स्थूरि भवति क्षेमस्य रूपम् ।
होत्रा अनुविमुच्यान्ता इति ।
अथ यदनड्वानग्नीधे भवति वहति वा अनड्वान्वहत्यग्निर्देवेभ्यो हविस्तत्तत्सलक्ष्म क्रियते ।
तद्यदेता यथारूपं दक्षिणा नीयन्ते समृद्ध्या एव ।
समस्मा ऋध्यते य एवं वेद २०३