श्रायन्तीयं ब्रह्मसाम ।
समेवैनत्तच्छ्रीणन्ति ।
यज्ञायज्ञीयमनुष्टुप्सु प्रोहन्ति ।
वाग्वै यज्ञायज्ञीयम् ।
वागनुष्टुप् ।
वाचैवैनत्तत्समर्धयन्ति ।
वारवन्तीयमग्निष्टोमसाम ।
इन्द्रि यं वै वीर्यं वारवन्तीयम् ।
इन्द्रि येणैवैनत्तद्वीर्येण समर्धयन्ति ।
सप्तदशस्तोमो भवति प्रजापतिर्वै सप्तदशः ।
प्रजापतिर्नष्टस्यानुवेत्ता स यो नष्टस्यानुवेत्ता तेनेदं भर्गमनुविन्दामेति ।
अग्निष्टोमो यज्ञस्संवत्सरो वा एष यदग्निष्टोमस्संवत्सरेणैवैनांस्तत्परिगृह्यात्मस्वदधत ।
तस्मिन्नेता यथारूपं दक्षिणा नीयन्ते स्रगुद्गातू रुक्मो होतुः प्राकाशावध्वर्योर्द्वादश पष्ठौहीर्ब्रह्मणे धेनुर्मैत्रावरुणायर्षभो ब्राःमणाच्छंसिने वाससी नेष्टापोत्रो स्थूरि यवाचितमच्छावाकायानड्वानग्नीधः ।
तद्यत्स्रगुद्गातुर्भवति सौर्यो वै स्रक्सौर्य उद्गाता तत्तत्सलक्ष्म क्रियते २०२