२०१

अथैतास्संसृप इष्टयो भवन्ति ।

वरुणस्य ह वै सुष्वाणस्य षोडशतयैरापो भर्गं निरघ्नन् ।

तदिमां दिशमपतत् ।

तच्चतुर्धाभवद्भृगुस्तुरीयं सरस्वती तुरीयं दशपेयस्तुरीयं श्रायन्तीयं तुरीयम् ।

तस्मादेतस्य यज्ञस्य भार्गवो होता भवति सरस्वतीरापोऽभिषेचनीया दशपेयो यज्ञ श्रायन्तीयं ब्रह्मसाम ।

ते देवा अब्रुवन्नेतेदं भर्गमनुविन्दामेति ।

त एतास्संसृप इष्टीरपश्यन् ।

ताभिरेनदनु समसर्पन् ।

यदनु समसर्पंस्तत्संसृपां संसृप्त्वम् ।

तद्विष्णुनैव देवतया दशभ्यामन्वविन्दन् ।

तस्मादेतस्य यज्ञस्य वैष्णवं दशमं हविर्निरुप्यते ।

दशम्यां ह्यन्वविन्दन् ।

दशमीं प्रसृप्तो भवति ।

दशम्यां ह्यन्वविन्दन् ।

दश चमसा भवन्ति ।

दशम्यां ह्यन्वविन्दन् ।

दश दश चमसमनु प्रसृप्ता भवन्ति ।

दशम्यां ह्यन्वविन्दन् ।

यो दशपुरुषं सोमपीथादव्यवच्छिन्नस्स भक्षस्य कर्ता ।

दशम्यां ह्यन्वविन्दन् ।

तदनुविद्याग्निना पर्यैन्धत ।

मरुतोऽधमन् ।

श्रायन्तीयेनैनदश्रीणन् ।

तच्छ्रायन्तीयस्य श्रायन्तीयत्वम् ।

तस्य यज्ञायज्ञीयस्यर्क्षु बहिष्पवमानं भवति ।

अग्निर्वै यज्ञायज्ञीयस्यर्चः ।

अग्निनैवैनत्तत्परीन्धते २०१