२००

अवभृतादुदेयुषे द्वादशपुष्करां स्रजं प्रतिमुञ्चति ।

आपो वै देवानां पत्नय आसन् ।

ता मिथुनमैच्छन्त ।

ता देवा उपायन् ।

ता गर्भमदधत ।

ततः पुष्कराण्यजायन्त ।

सत्यं वा आपः ।

सत्यं दीक्षा ।

सत्यस्यैव तत्सत्यं यत्पुष्कराणि ।

सत्यस्यैवास्मै तत्सत्येन तपो दीक्षां प्रतिमुञ्चति ।

सा द्वादशपुष्करा भवति ।

द्वादश मासास्संवत्सरः ।

संवत्सरो यज्ञः ।

यज्ञमेवास्मिंस्तत्प्रतिमुण्चति ।

अथो आहुस्सप्तपुष्करैव स्यादिति ।

सप्त वै छन्दांसि ।

छन्दोभिर्यज्ञस्तायते ।

यज्ञमेवास्मिंस्तत्प्रतिमुञ्चति ।

अथो आहुष्षट्पुष्करैव स्यादिति ।

षड्वा ऋतवस्संवत्सरः ।

संवत्सरो यज्ञः ।

यज्ञमेवास्मिंस्तत्प्रतिमुञ्चति ।

अथो आहुः पञ्चपुष्करैव स्यादिति ।

पाङ्क्तो यज्ञः ।

पाङ्क्ताः पशवः ।

पशवो यज्ञः ।

यज्ञमेवास्मिंस्तत्प्रतिमुञ्चति ।

अथो आहुश्चतुष्पुष्करैव स्यादिति ।

चतस्रो दिशः ।

चतुष्पदा पशवः ।

पशवो यज्ञः ।

यज्ञमेवास्मिंस्तत्प्रतिमुञ्चति ।

अथो आहुस्त्रिपुष्करैव स्यादिति ।

त्रिषवणो यज्ञः ।

यज्ञमेवास्मिंस्तत्प्रतिमुञ्चति ।

तदु वा आहुर्द्वादशपुष्करैव स्यादिति ।

द्वादशसु वावैतानि सर्वाणि ।

तस्माद्द्वादशपुष्करैव स्यादिति २००