१९९

अध क्षपा परिष्कृत इत्यनुष्टुबन्त्या भवति ।

स ह वा उद्गाता राजानं राजसूयेन याजयेद्य एनं बहिष्पवमान एव देवानां देवासन्दीमारोहयेत् ।

अनुष्टुप्प्रतिपद्भवति अनुष्टुबन्त्या ।

तयोश्चतुष्षष्टिरक्षराणि ।

ततो यानि षष्टिरासन्दी सा ।

अथ यानि चत्वार्यासन्दीपादास्ते ।

एतद्वै राजानमुद्गाता बहिष्पवमान एव देवानां देवासन्दीमारोहयति ।

उभयान्याज्यानि भवन्ति ।

उभे ह्यत्र सामनी क्रियेते ।

तदाहुरन्यतराण्येव कार्याणि यान्येव बार्हतानि ।

विड्भाजनानि वा आज्यान्यपि वाजिन्या विशः क्षत्रं सूयाता इति ।

तदु वा आहुरुभयान्येव कार्याणि ।

सर्वेषां वै राज्यायाभिषिच्यमानोऽभिषिच्यते ।

तस्मादुभयान्येव कार्याणीति ।

तानि पञ्चदशानि भवन्ति ।

क्षत्रं वै पञ्चदशः ।

क्षत्रेणाभिषिच्यमानोऽभिषिच्याता इति १९९