१९८

अथैते सरस्वतश्च सरस्वत्याश्च ।

एतद्वै दैव्यं मिथुनं प्रजननं यत्सरस्वांश्च सरस्वती च ।

दैव्येन मिथुनेन प्रजाया इति ।

तदाहुः पुंसः पूर्वा कार्या स्त्रिया उत्तरा ।

तथा सुष्वाणस्यानपगल्भ्यो राजपुत्र आजायत इति ।

तदु वा आहुर्वायुर्वै रेतोधाः ।

प्रजननं सरस्वती ।

तौ सरस्वन्तं मिथुनात्प्रजनयतः ।

अथो वाशिता वै पूर्वा धावत्यन्वमृषभः सरस्वत्या एव पूर्वा कार्येति ।

एतदु हैतत्सरस्वतस्त्वेव पूर्वा कार्या ।

अथ ब्राह्मणस्पत्या ब्रह्मण्य क्षत्रं सूयाता इति ।

अथ सावित्री सवितृप्रसूतस्सूयाता इति ।

अथैते उभे प्रतिपदौ भवतः ।

उभे ह्यत्र सामनी क्रियेते ।

अभिवन्नवर्चं भवत्यभिषिक्त्यै रूपम् ।

अथो तेनैव त्रिवृत स्तोमान्न यन्ति ।

सवत्षडृचं भवति ।

सामानं वदन्तीभिस्सूयाता इति ।

वृषण्वद्भवति ।

अयं वृषाभिषिच्यमानोऽभिषिच्याता इति ।

चतुरृचं भवति चतुष्पदां पशूनामवरुद्ध्यै ।

परोक्षं द्विपदा भवन्ति द्विपदां पशूनामवरुद्ध्यै ।

पर्यासो भवति यः पर्यासे कामस्स म उपाप्तोऽसदिति १९८