१९७

तदाहुर्नैतद्रा जन्यो वेदयेत ।

यथा वै श्रेष्ठी कामयते तथा करोति ।

यस्स ब्रूयात्त्रिवृतमेव स्तोमं कुरुताग्नेयीं सम्भार्यास्वित्यब्रह्मज्य एव राजन्यो ब्राह्मणाञ्जिनीयादभ्रूणाहत्यै मारयात् ।

तदु वा आहुर्य एवैतद्रा जन्यो वेदयेत तमेवाब्रह्मज्यो जिनीयात् ।

तमभ्रूणहत्यै मारयादिति ।

तदाहुर्यन्ति वा एते प्राणेभ्यो ये त्रिवृत स्तोमाद्यन्तीति ।

त्रिवृताग्निष्टोमेन पुरस्ताद्यजेत ।

प्राणो वै त्रिवृतः ।

तेनैव प्राणेभ्यो न यन्ति ।

ब्रह्म पुरस्तादु क्षत्रं सूयते ।

अथो आहुरपिचितिरिति यज्ञक्रतुः ।

तेनैव यजेतेति ।

तस्य यद्द्वे त्रिवृती स्तोत्रे भवतस्तेनैव प्राणेभ्यो न यन्ति ।

अपचितिमु सुष्वाणोऽश्नुते ।

तदु वा आहुर्यदेवैषा वायव्या प्रतिपद्भवति प्राणो वै वायुः प्राणैरेव तत्समृध्यन्ते ।

वायो शुक्रो अयामि त इति शुक्रवती भवति ।

ज्योतिरिव ह वा एषोऽन्येषु मनुष्येष्वतिभाति यस्सूयतेऽयं सुष्वाणो ज्योतिरिवासदिति ।

मध्वो अग्रं दिविष्टिष्विति तदेतन्मधव्यमेवाग्र्यं कुर्वन्ति ।

आ याहि सोमपीतय इति सौमी ।

तेन पावमानी क्रियते ।

स्पार्हो देव नियुत्वतेति ।

क्षत्रं वै स्पार्हः ।

विशो नियुत्वतीः ।

क्षत्रायैव तद्विशमनुवर्त्मानं कुर्वन्ति ।

तस्मात्क्षत्रस्य विडनुवर्त्मा १९७