अथैष राजसूयः ।
वरुणो वा अकामयत सर्वेषां देवानां राज्याय सूयेयेति ।
स एतं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
ततो वै सर्वेषां देवानां राज्यायासूयत ।
सूयते स्वानां श्रेष्ठतायै य एवं वेद ।
तस्य चतुस्त्रिंशाः पवमाना भवन्ति ।
स्वराड्वै देवलोकः ।
स्वाराज्यमु चतुस्त्रिंशी ।
तदेनं तत्सुष्वाणमेव पवमानमुखे स्वाराज्येन लोकेन समर्धयन्ति ।
अनुष्टुप्प्रतिपद्भवति ।
वाग्वा अनुष्टुप् ।
क्षत्रमु वै वाक् ।
क्षत्रेणाभिषिच्यमानोऽभिषिच्याता इति ।
अथैताः पञ्च सम्भार्या नानादेवत्या भवन्ति ।
पञ्चानां ह वै पुरुषाणां राज्यायाभिषिच्यमानोऽभिषिच्यते राज्ञे राजन्याय सूताय ग्रामण्ये शूद्रा य दासाय ।
उदतस्त्रिवृतं स्तोमं हरन्त्युदाग्नेयीं सम्भार्याभ्यः ।
तस्माद्ब्राह्मण्यो राजन्यस्याज्येयोऽमार्योऽदण्ड्योऽघात्यः ।
यदत्र त्रिवृतं स्तोमं कुर्युराग्नेयीं सम्भार्यास्वब्रह्मज्य एव राजन्यो ब्राह्मणाञ्जिनीयादभ्रूणाहत्यै मारयात् १९६