तासु गायत्रमुक्तब्राह्मणम् ।
अथो संहितम् ।
ब्रह्म वै संहितम् ।
ब्रह्मसव एषः ।
ब्रह्मणाभिषिच्यमानोऽभिषिच्याता इति ।
अथ वाजदावर्य्यः ।
अन्नं वाजः ।
अन्नदावर्य्य एता अन्नाद्यस्यैवावरुद्ध्यै ।
अथ वारवन्तीयं वारितैनं श्रीरुपतिष्ठाता इति ।
अथो पशवो वै वारवन्तीयम् ।
पशूनामेवावरुद्ध्यै ।
अथ सभम् ।
सभमविभं सुष्वाणायासदिति ।
अथो सभं सुष्वाणोऽश्नवाता इति ।
अथ श्रुधीयं कीर्तिमत्साम ।
पुण्यैनं कीर्तिरुत्तस्थिवांसमनूत्तिष्ठादिति ।
पुरोजिती वो अन्धस इत्यन्धस्वतीरनुष्टुभो भवन्ति ।
अन्नं वा अन्धः ।
तदेनं तत्सुष्वाणमेवान्नाद्येन समर्धयन्ति ।
तासु नानदम् ।
षोडशी ह्यत्रापि क्रियते ।
अथ विशोविशीयं क्षत्रसाम क्षत्रेणाभिषिच्यमानोऽभिषिच्याता इति ।
अथो अयं सुष्वाणो विशः ।
विशो राजासदिति ।
अथ श्यावाश्वं स्वर्ग्यं साम स्वर्गस्य लोकस्य समष्ट्यै ।
अथान्धीगवमन्नं वा आन्धीगवमन्नाद्यस्यैवावरुद्ध्यै ।
अथ कावं कं सुष्वाणायासदिति ।
अथो कावं सुष्वाणोऽश्नवाता इति ।
अथ यज्ञायज्ञीयं प्रज्ञातमग्निष्टोमसाम ।
प्रज्ञातमग्निष्टोमसाम नेदन्तरयामेति ।
अथो ज्यैष्ठ्यम् ।
ज्यैष्ठ्यं वै यज्ञायज्ञीयम् ।
ज्यैष्ठ्य एवैनं तत्प्रतिष्ठापयति ।
अथ साकमश्वं स्वर्ग्यं साम स्वर्गस्य लोकस्य समष्ट्यै ।
अथ सौभरं बृहतस्तेजः ।
सतेजस्केन नो बृहता स्तुतमसदिति ।
अथ नार्मेधमतिरात्रसामातिरात्रसाम नेदन्तरयामेति ।
अथो पशवो वै नार्मेधं पशूनां एवावरुद्ध्यै ।
अथ षोडशी यः षोडशिनि कामस्स म उपाप्तोऽसदिति ।
अथ बृहच्छिपिविष्टवतीषु भवति ।
मनो वै बृहत् ।
मनः प्रजापतिः ।
सप्तदशमेतत्स्तोत्राणां भवति ।
सप्तदश एष स्तोमः ।
प्रजापतिर्वै सप्तदशः ।
प्रजापति स्वर्गो लोकः ।
श्रीस्तत् ।
एनं तत्प्रजापतावेव स्वर्गे लोके श्रियामन्ततः प्रतिष्ठापयन्ति १९५