१९४

तासु गायत्रमुक्तब्राह्मणम् ।

अथामहीयवम् ।

प्रजापतेर्वा आमहीयवम् ।

प्राजापत्य एष यज्ञः प्रजापतेरेवाप्त्यै ।

अथ सैन्धुक्षितं क्षत्रसाम ।

क्षत्रेणाभिषिच्यमानोऽभिषिच्याता इति ।

अथाभीकमभिषिक्त्यै रूपम् ।

पुनानस्सोम धारयेत्युभयरूपा बृहती भवति ।

एषा उभयसामनी उद्ययाम ।

तस्मादेतां कुर्वन्त्येव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः ।

तासु रौरवं प्रज्ञातमग्निष्टोमसाम ।

प्रज्ञातमग्निष्टोमसाम नेदन्तरयामेति ।

अथ वाजजिदन्नं वै वाजोऽन्नाद्यस्यैवावरुद्ध्यै ।

अथ दैर्घश्रवसमन्नं वै दैर्घश्रवसमन्नाद्यस्यैवावरुद्ध्यै ।

अथार्कपुष्पमन्नं वा अर्कोऽन्नाद्यस्यैवावरुद्ध्यै ।

अथ समन्तम् ।

समन्तैनं श्रीरसदिति ।

अथ यौधाजयं त्रिणिधनं सवनानां कॢप्त्यै ।

अथौशनमन्त्यं साम अन्त्येन साम्नान्त्यं स्वर्गं लोकमश्नवाता इति ।

अथ रथन्तरम् ।

ब्रह्म वै रथन्तरम् ।

ब्रह्मसव एषः ।

ब्रह्मणाभिषिच्यमानोऽभिषिच्याता इति ।

अथ वामदेव्यं शिवं शान्तं सुष्वाणमनुवर्ताता इति ।

अथो पशवो वै वामदेव्यं पशूनामेवावरुद्ध्यै ।

अथ नौधसं प्रज्ञातं ब्रह्मसाम ।

प्रज्ञातं ब्रह्मसाम नेदन्तरयामेति ।

अथ कालेयं कं सुष्वाणायासदिति ।

अथो कालं सुष्वाणोऽश्नवाता इत्यथो तं कालयातं योऽस्य काल्योऽसदिति ।

यस्ते मदो वरेण्य इत्यार्भवस्य पवमानस्यान्धस्वतीर्गायत्र्यो भवन्ति ।

अन्नं वा अन्धः ।

तदेनं तत्सुष्वाणमेव पवमानमुखेऽन्नाद्येन समर्धयन्ति १९४