तदाहुस्तिसृष्वेवास्तुतासु धावेयुः ।
त्रयो वै प्राणापानव्यानाः ।
तेषां सन्तत्या अव्यवच्छेदायेति ।
अथो आहुरेकस्यामेवास्तुतायां धावेयुः ।
को ह्येवैष यत्प्राणोऽपानो व्यान इति ।
तदु वा आहुस्सर्वास्वेवास्तुतासु धावेयुरेतयोराज्योरसंसर्गायेति ।
तदाहुर्यन्ति वा एते यज्ञाद्ये बहिर्वेदि प्रसुते धावयन्ति ।
एतावान्वाव यज्ञो यावानन्तर्वेदि ।
षव वेद्यन्ताद्धावयेयुरिति ।
अथो आहू रथोपस्थ एव पादमाधाय तं पुनरेव हरेत् ।
तदेव सृतं चासृतं चेति ।
तदु वा आहुर्धावयेयुरेव ।
रथन्तरेण वै दैव्यमाजिमुज्जयति रथेन मानुषम् ।
तस्माद्धावयेयुरेवैतयोराज्योरुज्जित्या इति ।
ब्रह्मा रथचक्र आसीनस्सामाभिगायत्यग्म वाजं वाजिन इति ।
त आ वाजं वाजिनोऽग्मन्निति ।
अमृतोऽन्नं वै वाजोऽन्नाद्यस्यैवावरुद्ध्यै ।
वर्तमाने गायति ।
वर्तमानेन हि तत्र गच्छति यत्र जिगमिषति ।
वयश्वो ददाति ।
वयश्वो वा इदं विहितम् ।
प्रजापतेर्वा इदं सर्वम् ।
प्राजापत्य एष यज्ञः प्रजापतेरेवाप्त्यै ।
वयसो वयसस्सप्तदश सप्तदश ददाति ।
सप्तदशो वै प्रजापतिः ।
प्राजापत्य एष यज्ञः प्रजापतेरेवाप्त्यै ।
तस्यानिरुक्तं प्रातस्सवनं भवति ।
अनिरुक्तो वै प्रजापतिः ।
प्राजापत्य एष यज्ञः प्रजापतेरेवाप्त्यै ।
वाजवन्माध्यन्दिनं सवनम् ।
वाजपेयो ह्येषः ।
चित्रवत्तृतीयसवनम् ।
चित्रतमो ह्येष यज्ञः ।
उच्चा ते जातमन्धसेति माध्यन्दिनस्य पवमानस्य अन्धस्वतीर्गायत्र्यो भवन्ति ।
अन्नं वा अन्धः ।
तदेनं तत्सुष्वाणमेव पवमानमुखे अन्नाद्येन समर्धयन्ति १९३