१९२

अथैष वाजपेयः ।

वाजपेयेनान्नाद्यकामो यजेत ।

अन्नपेयो ह वा एष यद्वाजपेयः ।

अन्नं वै वाजः ।

यदा वै गौरश्वः पुरुषोऽन्नस्य सुहितो भवत्यथ स वाजी भवति ।

अग्निष्टोमेन ब्रह्मवर्चसकामो यजेत ब्रह्म वा अग्निष्टोमो ब्रह्मवर्चसस्यैवावरुद्ध्यै ।

ऋतूनां च ह खलु वै पशूनां च कामायाभिशिच्यमानोऽभिशिच्यते ।

तस्य पञ्च स्तोत्राणि चतुस्त्रिंशानि कुर्युस्सर्वान्पवमानानुभे ब्रह्मसामनी ।

तावतीरुक्थ्यस्य स्तोत्र्याः ।

आप्नुवन्ति तं कामं य उक्थ्ये ।

नो वा अग्निष्टोमाद्यन्ति ।

न ह खलु वा एषोऽग्निष्टोमो नोक्थ्यो न षोडशिमान्नातिरात्रः ।

अतिरिक्तयज्ञो ह वा एषः ।

अतिरिक्तो वै प्रजापतिः ।

प्राजापत्य एष यज्ञः ।

प्रजापतेरेवाप्त्यै ।

तस्य बृहच्छिपिविष्टवती भवति ।

पशवो वै शिपिविष्टाः ।

क्षत्रं बृहत् ।

क्षत्रियस्यो अयं लोकः ।

अस्य नो लोकवतस्साम्नः पशवो लोकमनूपतिष्ठान्ता इति ।

त्रिष्टुप्सु स्तुवन्ति बृहत्साम ।

क्षत्रं वै त्रिष्टुप् ।

क्षत्रेणाभिशिच्यमानोऽभिषिच्याता इति ।

वैष्णवीषु स्तुवन्ति विष्णुर्वै परमो देवतानां परमया देवतयाभिषिच्यमानोऽभिष्च्याता इति ।

आजिं धावन्ति प्रजापतेरेवाप्त्यै स्वर्गस्य च लोकस्योज्जित्यै ।

सप्तदश प्रव्याधान्धावन्ति ।

सप्तदशो वै प्रजापतिः ।

प्राजापत्य एष यज्ञः प्रजापतेरेवाप्त्यै १९२