अथो यथा रथाक्षे रथचक्रं प्रतिमुञ्चेदेवमेवैतानि सर्वाणि शिल्पान्याहृत्य ब्रह्मन्प्रतिष्ठापयन्ति ये गायत्रीषु बृहदग्निष्टोमसाम कुर्वन्ति ।
तस्माद्गायत्रीष्वेव बृहदग्निष्टोमसाम कार्यमिति ।
तदाहुस्सहस्रमेव दद्यात्तदेव विश्वमिति ।
अथो आहुर्यावतीरेवैतस्य विश्वजित स्तोत्र्यास्तावदेव दद्यात् ।
तदेव विश्वमिति ।
तदु वा आहुर्यदेवास्य किञ्चित्स्वं स्यात्तद्दद्यात् ।
यत्परिशिनष्टि स पाप्मेति ।
यथा वैनं मिथुनात्स्रवत्येवमेनं तस्मात्सर्वस्मात्पाप्मा स्रवति यत्परिशिनष्टि ।
तस्मात्सर्वमेव देयमिति १९१