तदाहुर्नातिष्टुत्यम् ।
यथा वै निष्कं मणिं स्रजं प्रतिमुच्य तत्पुनरुन्मुञ्चेत्तादृक्तद्योऽग्निष्टोमेऽतिष्टौतीति ।
अन्यतरद्ध त्वाव स विश्वयोर्जयति ।
अहोरात्रे वै सर्वं विश्वम् ।
अथो यथा महावृक्षस्याग्रं रूढ्वा प्रत्यवरोढुं न विन्देत्तादृक्तद्यदग्निष्टोमो भवति ।
तद्यत्प्रत्यवरोहीणि स्तोत्राणि भवन्त्येषा वै कृत्स्ना प्रतिष्ठा यदतिरात्रस्तेनैवास्यां प्रतितिष्ठति ।
तदाहुः प्रेव वा एतेऽस्माल्लोकाच्च्यवन्ते येऽतिरात्रमुपयन्तीति ।
तद्यद्गायत्रीषु बृहद्भवतीयं वै गायत्र्यस्यामेवैतत्प्रतितिष्ठति १९०