देवासुरा अस्पर्धन्त ।
अथ ह तर्हि प्रजापतावेवैतानि शिल्पान्यासुर्नेतरेषु देवेषु ।
स इन्द्रः प्रजापतिमुपाधावज्जयामासुरानिति ।
तस्मा एव तच्छिल्पं प्रायच्छत् ।
तदस्मिन्प्रत्यमुञ्छत् ।
यथा निष्कं मणिं स्रजं प्रतिमुञ्चेदेवं तन्वोदयच्छत् ।
तस्मादेतच्छिल्पं निरमिमीतैतानि पृष्ठानि ।
अथ यदितरत्तेज आसीद्येनैष एतत्तपति ।
तेऽसुरा इदं रूपं ज्ञात्वा सो नः पिता हन्ति सो नः पिता हन्तीत्येव वदन्तः पराजयन्त ।
ततो वै देवा अभवन्परासुराः ।
भवत्यात्मना परास्य द्विषन्भ्रातृव्यो भवति य एवं वेद १८९