१८८

अथो यथा पिता मातैवं बृहद्र थन्तरे यथा पुत्रा एवं पृष्ठानि ।

यद्वै पुत्रोऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा ।

तद्यद्बृहद्र थन्तरे अभितो भवतश्शान्त्या एव निषिद्ध्यै ।

अथो यथा पितरौ पुत्रानभितः परिशयीयातां तादृक्तद्यद्बृहद्र थन्तरे अभितो भवतो मध्ये पृष्ठानि ।

यथा ह वा इदमृषभा वा परस्वन्तो वा समुत्क्रुद्धास्तिष्ठेयुरेवमेतद्यदेतानि मध्यतः पृष्ठानि भवन्ति तद्यच्छ्यैतनौधसे अभितो भवतः ।

ब्रह्म वै नौधसम् ।

ब्रह्मणैवैनांस्तत्पुरस्ताच्छमयित्वा श्यैतेनोपरिष्टाव्छ्येतीकुर्वन्ति ।

तस्मात्पुरस्तादेव नौधसं स्यादुपरिष्टाच्छ्यैतम् ।

तदाहुर्यत्समाननिधनानि पृष्ठानि केनाजामि क्रियन्त इति ।

वैराजं च महानाम्नयश्च वैरूपं च रेवत्यश्चैतेनाख्यानेनाजामीति ।

अथो यदेवैतानि मध्येनिधनानि भवन्ति तेनो एवेति ।

तस्मिंस्त्रयस्सप्तदशा भवन्ति ।

ता एकपञ्चाशत्स्तोत्र्याः ।

तद्गोः प्रातस्सवनम् ।

एकान्ननवतिशतं रात्रेस्सा ज्योतिष्टोमस्य रात्रिः ।

तदेतन्मिथुनं प्रजननं क्रियते ।

प्र मिथुनेन जायते य एवं वेद ।

ता उभयी स्तोत्र्यास्सम्पद्यन्ते द्वे चत्वारिंशच्छते ।

सा विराट् ।

अन्नं विराट् ।

विराज्येव तदन्नाद्ये यज्ञस्यान्ततः प्रतितिष्ठति १८८