तदाहुः पापवस्यसमिव वा एतत्क्रियते यद्बृहद्र थन्तरे अभितो भवतो मध्ये पृष्ठानि ।
यथा वै पापीयांसमुपर्यासीनं श्रेयानधस्तादुपासीत तादृक्तद्यदेते बृहद्र थन्तरे अभितो भवतो मध्ये पृष्ठानीति ।
बृहद्र थन्तरे एव मध्ये स्यातामभितः पृष्ठानि पापवस्यसस्य व्यावृत्त्यै ।
अथो यथा श्रेयांसमुपर्यासीनं पापीयानधस्तादुपासीत तादृक्तद्यद्बृहद्र थन्तरे मध्ये भवतोऽभितः पृष्ठानीति ।
असर्वपृष्ठो ह तु तथा स्यात् ।
सर्वेषां वै पृष्ठानां वैराजमेव पूर्वं योगमानशे ।
अथो यद्यपि चरमं यन्तं पृच्छेयुरुप पृष्ठान्यगूर्णा इति नेत्येव ब्रूयात् ।
बृहद्र थन्तरे एवाभित स्यातां मध्ये पृष्ठानि सर्वपृष्ठतायै ।
इदं वै रथन्तरमदो बृहत् ।
पशवः पृष्ठानि ।
आभ्यामेवैतल्लोकाभ्यामुभयतः पशून्परिगृह्णीतेऽपरावापाय ।
नास्य वित्तं परोप्यते य एवं वेद १८७