१८६

अथ सावित्रीप्रसवाः ।

यदिह विषुरूपमिमा नानारूपाः प्रतिपद उपागाम तन्नस्सवितृप्रसूतमसदिति ।

अथाग्निपावमान्यः ।

पथमिव वा एते यन्ति ये पावमानीभिः प्रतिपद्यन्त इति ।

अग्निर्वै पथिकृद्देवतानाम् ।

येन वै केन चाग्निनैति पन्थानमेव कुर्वन्नेति ।

तद्यदेषाग्निपावमानी प्रतिपद्भवत्यग्निनैव तत्पथिकृता पन्थानं पर्यवयन्ति ।

पवमानस्य ते कव इति पर्यासो भवति ।

एतत्पुनः पन्थानं पर्यवयन्ति ।

यो वै पृष्ठानां धुर्यं वेद धुर्य स्वानां भवति ।

वैराजं वाव पृष्ठानां धुर्यम् ।

धुर्य स्वानां भवति य एवं वेद १८६