अथैते सरस्वतश्च सरस्वत्याश्च ।
एतद्वै दैव्यं मिथुनं प्रजननं यत्सरस्वांश्च सरस्वती च ।
दैव्येन मिथुनेन प्रजाया इति ।
तदाहुः पुंसः पूर्वा कार्या स्त्रिया उत्तरा ।
तथा यजमानस्यानपगल्भ्या प्रजाजायत इति ।
तदु वा आहुर्वायुर्वै रेतोधाः ।
प्रजननं सरस्वती ।
तौ सरस्वन्तं मिथुनात्प्रजनयतः ।
अथो वाशिता वै पूर्वा धावत्यन्वमृषभः सरस्वत्या एव पूर्वा कार्येति ।
एतदु हैतत्सरस्वतस्त्वेव पूर्वा कार्या ।
अथैषा ब्राह्मणस्पत्या प्रतिपद्भवति ।
प्रजापतिर्या ऋते ब्रह्मणः प्रजा असृजत ता अस्य सृष्टा पराभवन् ।
स एतां ब्राह्मणस्पत्यां प्रतिपदमपश्यत् ।
तया ब्रह्मण्वतीः प्रजा असृजत ।
ता अस्य सृष्टा न पराभवन् ।
तद्यदेषा ब्राह्मणस्पत्या प्रतिपद्भवति ब्रह्मण्वतीरेवैतया प्रजास्सृजते ता अस्य सृष्टा न पराभवन्ति १८५