प्रजापतिः प्रजा असृजत ।
स एतेनैव विश्वजितेदमसृजत विश्वम् ।
तद्यदेता नानारूपाः प्रतिपदो भवन्ति तस्मादु हेदं विश्वं भूतं नानारूपम् ।
पृष्ठानां वावैष योगः ।
उपवत्यैव रथन्तरं युज्यते ।
सरस्वता वैराजस्सारस्वत्या महानाम्नयो ब्राह्मणस्पत्यया वैरूपं सावित्र्या रेवतय आग्निपावमान्या बृहत् ।
तद्यदेता नानारूपाः ।
प्रतिपदो भवन्ति पृष्ठान्येवैतत्प्रातस्सवने युक्तानि ।
तानि माध्यन्दिने सवनेऽभ्यारोहन्ति ।
तदाहुर्वीव वा एते प्राणैरृध्यन्ते ये पवस्विनीभिः प्रतिपद्यन्त इति ।
तद्यदेषा वायव्या प्रतिपद्भवति प्राणो वै वायुः प्राणैरेव तत्समृध्यन्ते १८४