सा सपुच्छा भवति कृत्स्नत्वाय ।
अथो सर्वे वाव स्म प्राजाप्त्याः ।
यस्त्वाव पुत्राणां कृपणतमो भवति स पितुर्हृदयमाव्ययति ।
कृपणतामिवैष न्येति यस्सर्वं ददातीति गच्छति प्रजापतेरनुबोधम् ।
तद्या आरण्ये वसेदुदुम्बरे हैव ता वसेत् ।
प्रजापतिर्यत्प्रजाभ्य ऊर्जमन्नाद्यं व्यभजत्ततो यः संशेषः समशिष्यत स एष वनस्पतिरभवत् ।
ऊर्ग्वा उदुम्बरोऽन्नम् ।
अरण्यं वा एतस्यान्नाद्यमितं भवति यस्सर्वं ददाति ।
स योऽत्र प्रजापतिन्यङ्गो यदन्नाद्यम् ।
तदेव ताभिरवरुन्द्दे ।
अथ या न ग्रामे नारण्ये वसेन्निषादेषु हैव ता वसेत् ।
एते ह वै न ग्रामे नारण्ये यन्निषादाः ।
एताभिर्ह वा उभयमन्नाद्यं समभ्यवैति यच्च ग्राम्यं यच्चारण्यम् ।
स योऽत्र प्रजापतिन्यङ्गो यदन्नाद्यं तदेव ताभिरवरुन्द्दे ।
अथ या जने वसेद्वैश्ये वा ह ता भ्रातृव्ये वा वसेत् ।
एष ह वै ब्राःमणस्य जनो यद्वैश्यो वा भ्रातृव्यो वा ।
जनं वा एतस्यानाद्यमितं भवति यस्सर्वं ददाति ।
स योऽत्र प्रजापतिन्यङ्गो यदन्नाद्यं तदेव ताभिरवरुन्द्धे ।
अथ यास्सजने वसेद्रा जनि हैव ता वसेत् ।
एतद्ध वै सजनं यद्रा जा ।
अन्त उ वा अन्नाद्यस्य श्रीरन्त एव तदन्नाद्यस्य श्रियमन्ततः प्रतितिष्ठति १८३