१८२

रोहिणीं छविं परिधत्ते ।

एतद्वै पशूनां प्रियं रूपं यद्रो हितम् ।

पशूनामेव तत्प्रियेण रूपेण समृध्यते ।

खनति खनित्रमवृत्तिमपजयति ।

उभयतःक्ष्णूऋ अभ्रिर्भवत्युभयत एवास्मा अन्नाद्यं रदति ।

अरण्ये तिस्रो वसति यदारण्यमन्नाद्यं तदेव ताभिरवरुन्द्धे ।

न ग्रामे नारण्ये तिस्रो यन्न ग्रामे नारण्येऽन्नाद्यं तदेव ताभिः ।

जने तिस्रो जन्यं ताभिः ।

सजने तिस्रः सजन्यं ताभिः ।

ता द्वादश सम्पद्यन्ते ।

द्वादश मासास्संवत्सरः ।

संवत्सरादेवान्नाद्यमवरुन्द्धे ।

रोहिणीं छविं परिधत्ते ।

एषा ह वा अग्रे पशूनां त्वगास या पुरुषस्य या पशूनां सा पुरुषस्य ।

ते पशव आतपं वर्षं दशान्मशकान्न धारयन्ति ।

ते पुरुषमेत्याब्रुवन्पुरुषेयं तव त्वगस्त्वेषास्माकमिति ।

किं तत स्यादिति ।

आद्या ते स्याम इत्यब्रुवन् ।

इदं ते वास इति वासः प्रायच्छन् ।

तद्यद्रो हिणीं छविं परिधत्ते स्वेनैव तद्रू पेण समृध्यते ।

तथा हैनममुष्मिल्ँ लोके पशवो नादन्ति ।

अदन्ति ह वा अमुष्मिल्ँ लोके पशवः पुरुषम् ।

तस्मादु ह गोरन्ते नग्नो न स्यात् ।

ईश्वरो हास्मादपक्रमितोस्त्वचमस्य बिभर्मीति १८२