१८१

अथैतान्याप्रीराज्यानि भवन्ति ।

प्रजापतिः प्रजा असृजत ।

स सृष्ट्वा रिरिचानोऽमन्यत ।

स एतान्याप्रीराज्यान्यपश्यत् ।

तैरात्मानमाप्रीणीतायातयामतायै ।

रिच्यत इव वा एष यत्सर्वं ददाति ।

तद्यदेतान्याप्रीराज्यानि भवन्त्यात्मानमेवैतैर्यजमान आप्रीणीतेऽयातयामतायै ।

तदाहुर्वीव वा एते प्राणैरृध्यन्ते ।

य एतानि नानारूपाणि नानादेवत्यानि नानाछन्दःसु समाने यज्ञक्रतौ सम्प्रोहन्तीति ।

तद्यद्गायत्रीषु बृहद्भवति प्राणो वै बृहत् ।

प्राणो गायत्री प्राणैरेव तत्समृध्यन्ते ।

यद्यथापूर्वं पृष्ठान्युपेयू रेवतीरुत्तमाः कुर्यू रेवतीनामेता रूपमृचस्तेनैव रेवतीनां रूपान्न यन्ति ।

तदाहुर्यन्ति वा एतेऽग्निष्टोमसाम्नो ये त्रयस्त्रिंशं स्तोमं कुर्वन्तीति ।

एकविंशत्यक्षरा एता ऋचो भवन्ति ।

तेनैवाग्निष्टोमसाम्नो न यन्ति ।

तदाहुर्यन्ति वा एते यज्ञायज्ञीयाद्ये बृहदग्निष्टोमसाम कुर्वन्तीति ।

तद्यत्त्वमग्ने यज्ञानां होतेति भवति तेनैव यज्ञायज्ञीयस्य रूपान्न यन्ति तेन तृतीयसवनान्न यन्ति ।

तदाहुर्वीव वा एष पशुभिरृध्यते यत्सर्वं ददातीति १८१