१८०

अथैष विश्वजित् ।

इन्द्रो ऽसुरानजयत् ।

तेषां त्वानिव नाजयत् ।

तमेतेन देवा अयाजयन् ।

स विश्वमजयत् ।

इन्द्रो वै विश्वजित् ।

यद्वा एतेन शिल्पेनाजयत् ।

तद्विश्वजितो विश्वजित्त्वम् ।

देवा वा असुरेभ्यो बिभ्यतस्सर्वमिदं सङ्गृह्योर्ध्वा स्वर्गं लोकमुदक्रामन् ।

यो वै सर्वं विन्दमानः सर्वं न ददाति स सर्वपरादायी ।

अथ यस्सर्वं विन्दमानस्सर्वं ददाति स सर्ववेदसी ।

सर्वं वा एष विन्दते यत्सर्वान्स्तोमान्सर्वान्ग्रहान्सर्वाणि पृष्ठानि सर्वाणि छन्दांसि विन्दते ।

तस्य चतुरुत्तरिण स्तोमा भवन्ति ।

इमानेव लोकांस्त्रिभिरभिजयति ।

यश्चतुर्थो विश्वा एव तेनाशास्सम्भार्या भवन्ति ।

पृष्ठानामेव संयोगो नानादेवत्या भवन्ति तेन युज्यं तेन रूपेण ।

तदाहुरपथमिव वा एते यन्ति ये पावमानीभिः प्रतिपद्यन्त इति ।

पवमानस्य ते कव इति पर्यासो भवति ।

पुनः पन्थानं पर्यवयन्ति ।

न चत्वारि षड्भ्यो भवन्ति ।

तेन विभवन्ति १८०