तस्य रथन्तरं पृष्ठं भवति वामदेव्यं मैत्रावरुणसाम बृहदार्भवे पवमाने ।
इदं वै रथन्तरम् ।
अन्तरिक्षं वामदेव्यम् ।
अद एव बृहत् ।
एषामेव लोकानामनन्तर्हितानामभिजित्यै ।
तस्मिन्नेतानि परोक्षं पृष्ठरूपाण्यवकल्पयन्ति विश्वजितः प्रत्युद्यमाय ।
इन्द्रो वै वृत्रमहन् ।
तं वृत्रं जघ्निवांसमेभ्यो लोकेभ्यस्तमोऽन्ववृणोत् ।
सोऽकामयतापेदं तमो हनीयेति ।
स एतमभिजितं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
तस्य त्र्युत्तरिण स्तोमा भवन्ति ।
त्रयो वा इमे लोकाः ।
तेनैभ्यो लोकेभ्यस्तमोऽपाहत ।
तं चतुर्थाल्लोकात्तमोऽन्वेवावृणोत् ।
सोऽकामयतापैवेदं तमो हनीयेति ।
स एतं विश्वजितं यज्ञमपश्यत् ।
तमाहरत् ।
तेनायजत ।
तस्य चतुरुत्तरिण स्तोमा भवन्ति ।
चतस्रो दिशः ।
एष उ ह वै चतुर्थो लोको यद्दिशः ।
तेन चतुर्थाल्लोकात्तमोऽपैवाहत ।
ततो वै स सर्वेभ्य एभ्यो लोकेभ्यस्तमः पाप्मानमपहत्य स्वर्गं लोकमारोहत् ।
सर्वेभ्य एवैभ्यो लोकेभ्यस्तमः पाप्मानमपहत्य स्वर्गं लोकमारोहति य एवं वेद १७९