१७८

अथैषोऽभिजित् ।

देवासुरा वा एषु लोकेष्वस्पर्धन्तास्मिन्भुवने ।

ते देवा अकामयन्ताभीमाल्ँ लोकाञ्जयेम जयेमासुरान्स्पर्धां भ्रातृव्यानिति ।

त एतं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

तेनेमाल्ँ लोकाअभ्यजयन्नजयन्स्पर्धां भ्रातृव्यानसुरान् ।

तद्यदिमाल्ँ लोकानभ्यजयंस्तदभिजितोऽभिजित्त्वम् ।

अभीमाल्ँ लोकाञ्जयति जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद ।

तस्य त्र्युत्तरिण स्तोमा भवन्ति त्रयो वा इमे लोका एषां लोकानामभिजित्यै ।

चतुरावृतो भवन्ति चतस्रो दिशो दिशामेवाभिजित्यै ।

अभिवतीषु स्तुवन्त्येषामेव लोकानामभिजित्यै ।

आभीकमभिनिधनमभीवर्त आभीशवमित्येतानि सामानि भवन्त्येषामेव लोकानामभिजित्यै १७८