बहवो ह वै मरुतो यांश्च विद्म यांश्च न ।
ते नस्सर्वे प्रीता आसन्निति ।
अथ यन्मरुद्भ्योऽभिष्टिभ्य इति यथा तं कामं स्वाभ्याप्तमभ्यश्नुवीत तत्कामो यजेत ।
तानेतान्पशूनालभेत ।
दीक्षिष्यमाण एकमुपवसथ एकं प्रसुत एकमनूबन्ध्यायामेकमुदवसानीयायामेकमेवमेतान्पशूनालभेत ।
अथ हैक आहुः पञ्चरात्र एवैष स्यात् ।
तत्रैवैतानन्वहं पशूनालभेतेति ।
तदु होदर शाण्डिल्य स्थविरमेकयावानं पप्रच्छ यदिदं विवदन्तो पञ्चरात्र एवासेत्येक उक्थ्य एव सप्तदश इत्येके कथं स आसेति ।
स होवाचोक्थ्यमेव नस्तं सप्तदशमेकाहमभ्यवेदयन्तेति ।
अथ हैक आहुरतिरात्र एवैष स्यात् ।
कथं पञ्च वर्षाणि यज्ञ आगूर्णोऽनतिरात्र स्यादिति ।
तद्ध तन्न तथा ।
अग्निष्टोम एव स्यादित्येके ।
अग्निष्टोमाद्वै सर्वे यज्ञक्रतवस्तायन्त इति ।
तदु ह तन्नो एव तथा ।
उक्थ्यो हैव स सप्तदश स्यात् ।
विड्वा उक्थ्यानि ।
विट्सप्तदशः ।
विशामेव यज्ञः ।
तस्मादुक्थ्य एव सप्तदश स्यादिति ।
तस्य मरुतां चार्को मरुतां च संस्तोभ इत्येते आदिष्टसामनी पवमानयोर्भवतः ।
स्तोममेव तद्रू पेण समर्धयन्ति १७७