तस्य पण्च शरदः पञ्चोक्षाणः प्रोक्षिताश्चरन्ति ।
तद्यत्पञ्चशरदः पञ्चोक्षानः प्रोक्षिताश्चरन्ति तस्मात्पञ्चशारदीयः ।
त उ सर्वे पृश्नयो भवन्ति ।
मरुतः पृश्निमातर इति वा आहुः ।
अथो ऋचाभ्यनूच्यते मरुतः पृश्निमातर इति ।
तस्मात्पृश्नयो भवन्ति ।
वीर्यं वै देवानां हविः ।
तदात्मभ्य एवागृह्णत ।
तद्यन्मरुद्भ्य एव भवति वीर्यमेव तदात्मसु दधते ।
मरुद्भ्य उज्जेषिभ्य इति मरुद्भ्य स्वापिभ्य इति मरुद्भ्य स्वतवद्भ्य इति मरुद्भ्य एव मरुद्भ्य इति मरुद्भ्योऽभिष्टिभ्य इति ।
तद्यन्मरुद्भ्य उज्जेषिभ्य इति यथा तं काममुज्जयेद्यत्कामो यजेत ।
अथ यन्मरुद्भ्य स्वापिभ्य इति यथा तं कामं स्वाभ्याप्तमभ्याप्नुयाद्यत्कामो यजेत ।
अथ यन्मरुद्भ्य स्वतवद्भ्य इति मरुतो ह वा इदं सर्वं स्वम् ।
तानेवैतत्स्वेन प्रीणाति ।
तस्मै प्रीता स्वं प्रत्यवर्जन्ति ।
तेन प्रत्यवसृष्टेन यजते अथ यन्मरुद्भ्य एव मरुद्भ्य इति १७६