१७५

अथैष पञ्चशारदीयः ।

मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम जयेम स्वर्गं लोकमिति ।

त एतं यज्ञमपश्यन् ।

तमाहरन् ।

तेनायजन्त ।

ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानामासन्नजयन्स्वर्गं लोकम् ।

ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति जयति स्वर्गं लोकं य एवं वेद ।

स वा एष विशामेव यज्ञः ।

विशो वै मरुतस्तस्माद्विशां यज्ञः ।

तेन हैतेनैक्यावा कान्दम ईजे ।

स हौजिष्ठश्चैव बलिष्ठश्च भूयिष्ठश्च वीर्यवत्तमश्च स्वानामास जिगाय वा लोकं न वा ।

स सप्तदशो भवति प्रजापतिर्वै सप्तदशः ।

प्रजापतिः प्रजननं स यः प्रजननं स मा प्रजनयादिति ।

तस्य रथन्तरं पृष्ठं भवति प्रजननं वै रथन्तरं तद्यत्प्रजननं तन्मा प्रजनयादिति ।

स उक्थ्यो भवति प्रजा वै पशव उक्थानि प्रजया पशुभिः प्रजाया इति १७५