१७४

अथैषोऽपूर्वः ।

प्रजननकामो हैतेन यजेत ।

प्रजापतिर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय न मदन्यः पूर्व स्यादिति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत ।

नास्मादन्यः पूर्व आसीत् ।

स यः कामयेत बहुः प्रजायेय न मदन्यः पूर्व स्यादिति स एतेन यजेत ।

बहुरेव प्रजया पशुभिः प्रजायते नास्मादन्यः पूर्वो भवति ।

स त्रिवृद्र थन्तरसामा भवति ।

न ह वै त्रिवृत स्तोमादन्यः पूर्व स्तोमोऽस्ति न रथन्तरात्पृष्ठादन्यत्पूर्वं पृष्ठमस्ति न प्रजापतेरन्या पूर्वा देवतास्ति ।

तद्यदेतान्यपूर्वाणि तस्मादपूर्वः ।

अथो मनो वै प्रजापतिः ।

नो वै मनसोऽन्यत्किं चन पूर्वमस्ति ।

तस्मादु एवापूर्वः ।

स त्रिवृद्भवति न्यूनं वै त्रिवृत् ।

न्यूनं प्रजननं तद्यत्प्रजननं तन्मा प्रजनयादिति ।

तस्य रथन्तरं पृष्ठं भवति प्रजननं वै रथन्तरं तद्यत्प्रजननं तन्मा प्रजनयादिति ।

तस्य द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरः ।

संवत्सरः प्रजननं स यः प्रजननं स मा प्रजनयादिति ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरः प्रजननं स यः प्रजननं स मा प्रजनयादिति १७४