१७३

अथैष गौतमस्य चतुष्टोमः ।

गौतमो वा अकामयताव पशून्रुन्धीय भूमानं पशूनां गच्छेयमिति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै सोऽव पशूनरुन्ध भूमानं पशूनामगच्छत् ।

स यः कामयेताव पशून्रुन्धीय भूमानं पशूनां गच्छेयमिति स एतेन यजेत ।

अव हैव पशून्रुन्द्धे भूमानं पशूनां गच्छति ।

तस्य चतसृषु बहिष्पवमानं भवति ।

चतुष्पादा वा अश्वास्सन्तश्चतुश्शफाः ।

ते ये चतुष्पादाः पशवश्चतुश्शफास्तानेवैतेनावरुन्द्धे ।

अष्टास्वष्टास्वाज्यानि ।

अष्टाशफा वै पशवः ।

ते येऽष्टाशफाः पशवस्तानेवैतेनावरुन्द्धे ।

द्वादशो माध्यन्दिनः ।

द्वादशाक्षरा वै जगती ।

पशवो जगती ।

यत्क्षुद्रं पशूनां तज्जागतम् ।

तदेवैतेनावरुन्द्धे ।

षोडशानि पृष्ठानि ।

षोडशकला वै पशवो यांश्च विद्म यांश्च न ।

तानेवैतेन कलाशोऽवरुन्द्धे ।

सविंश आर्भवः पवमानः ।

द्वे वा एते दशदशिन्यौ विराजौ यद्विंशतिः ।

विंशतिप्रतिष्ठाना वै पशवो वैराजाः ।

ते ये विंशतिप्रतिष्ठानाः पशवो वैराजास्तानेवैतेनावरुन्द्धे ।

अथ चतुर्विंशमग्निष्टोमसाम ।

चतुष्पादा वै पशवो वैराजाः ।

ते ये चतुष्पादाः पशवो वैराजास्तानेवैतेनावरुन्द्धे ।

अथो चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सरेणैवैनांस्तत्परिगृह्यात्मन्नधत्त ।

न ह खलु वा एषोऽग्निष्टोमो नोक्थ्य उभयमिवैव ।

नो वा एते ग्राम्याः पशवो नारण्या उभयमिवैव ।

तानेवैतेनावरुन्द्धे १७३