तस्य रथन्तरं पृष्ठं भवति बृहद्ब्रह्मसाम ।
ब्रह्म वै रथन्तरम् ।
क्षत्रं बृहत् ।
ब्रह्मैव तत्क्षत्रस्य पुरस्ताद्दधाति ।
तस्माद्ब्राह्मणः क्षत्रियस्य पुरोहितः ।
अथो हैतद्ब्रह्मण एव क्षत्रमनुवर्त्म करोति ।
स उक्थ्यो भवति ।
विड्वा उक्थानि ।
एष उ ह वै द्वितीयो राजा यत्पुरोहितः ।
विश उ वा एष षश्वर्यमाधिपत्यं गच्छति य श्रियमश्नुते ।
विश षश्वर्यमाधिपत्यं गच्छानीति तस्मादुक्थ्यो भवति ।
अथो हैतद्ब्रह्मणे चैव क्षत्राय च विशमनुयुवं करोति ।
तान्येकविंशानि भवन्ति ।
द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः ।
एष उ ह वै श्रीः ।
एतामेव तच्छ्रियमन्ततोऽभ्यारोहति ।
स उ एव सर्वस्संस्तुतो गायत्रीमेवाभिसम्पद्यते ।
ब्रह्म वै गायत्री ।
यदो वै ब्रह्मवर्चसमृध्नोत्यथ स तस्य पुरोधां गच्छति ।
स यदा पुरोधां गच्छेदथ कामयेताच्याव्योऽस्यै पुरोधायै स्यां न च्यवेयेत्येतस्यैव सतः पञ्चदशं ब्राह्मणाच्छंसिन आज्यं कुर्यात्तत् ।
ब्रह्म वै त्रिवृत् ।
क्षत्रं पञ्चदशः ।
तदेतद्ब्रह्मणोभयतः क्षत्रं परिगृह्णाति ।
स हाच्याव्यः पुरोधायै भवति न च्यवते १७२