अथैष गायत्रः ।
तस्य त्रिवृति प्रातस्सवने पञ्चदशमच्छावाकस्याज्यं सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनम् ।
उक्थ्यो यज्ञ उभयसामनी ।
पुरोधाकामो हैतेन यजेत ।
तद्यत्त्रिवृति प्रातस्सवने पञ्चदशमच्छावाकस्याज्यं भवति ब्रह्म वै त्रिवृत्क्षत्रं पञ्चदशो ब्रह्मैव तत्क्षत्रस्य पुरस्ताद्दधाति ।
तस्माद्ब्राःमणः क्षत्रियस्य पुरोहितः ।
अथो हैतद्ब्रह्मण एव क्षत्रमनुवर्त्म करोति ।
सप्तदशं माध्यन्दिनं सवनम् ।
विड्वै सप्तदशः ।
एष उ ह वै द्वितीयो राजा यत्पुरोहितः ।
विशो वा एष षश्वर्यमाधिपत्यं गच्छति य श्रियमश्नुते ।
विश षश्वर्यमाधिपत्यं गच्छानीति तस्मात्सप्तदशं माध्यन्दिनं सवनं भवति ।
अथो हैतद्ब्रह्मणे चैव क्षत्राय च विशमनुयुवं करोति १७१