जमदग्नेस्सप्तहं विद्र थं चक्षूंषीति ।
यान्यभिचरणीयस्य रूपं सामानि तानि ।
स्तोममेव तद्रू पेण समर्धयन्ति ।
अथो आहुरन्नाद्यकाम एवैनेन यजेतेति ।
सर्वो ह वा अन्यो विराजमतिष्टौति ।
एष ह वाव विराजं नातिष्टौति यो दशभि स्तुते ।
दशाक्षरा विराट् ।
अन्नं विराट् ।
विराज एवान्नाद्यस्यावरुद्ध्यै ।
तस्य रथन्तरं पृष्ठं भवत्यन्नं वै रथन्तरमन्नाद्यस्यैवावरुद्ध्यै ।
तस्मिन्नेतानि सामान्यवकल्पयन्त्यर्कार्कपुष्पे दैर्घश्रवसमिति यान्यन्नाद्यस्य रूपं सामानि तानि ।
स्तोममेव तद्रू पेण समर्धयन्ति १७०