१६९

अथैष मनुस्तोमः ।

मनुश्च वै यमश्च वैवस्वतावास्ताम् ।

सोऽकामयत मनुरस्मै मां लोकाय राज्याय देवास्सुवीरन्नमुष्मै यममिति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै तमस्मै लोकाय राज्याय देवा असुवतामुष्मै यमम् ।

स वा एष सदशो भवति ।

सन्दंशो ह वा एष यत्सदशः ।

स यथा सन्दंशेन सन्दश्य हरेदेवमेवैनमेतेन सन्दंशेन सन्दश्यास्माल्लोकादमुं लोकं जहार ।

तस्य रथन्तरं पृष्ठं भवति ।

वज्रो वै रथन्तरम् ।

वज्रेणैवैनं तदस्माल्लोकादमुं लोकमभिनिर्जघान ।

स यो भ्रातृव्यवान्स्याद्योऽभिचरेद्य स्पर्धेत स एतेन यजेत वज्रेणैवैनं तदस्माल्लोकादमुं लोकमभिनिर्हन्ति ।

तस्मिन्नेतानि घोराणि सामान्यवकल्पयन्ति १६९