तस्य वामदेव्यं पृष्ठं भवति स्वारम् ।
स्वाराणि सर्वाणि सामान्यवकल्पयन्ति ।
प्राणो वै स्वरः ।
प्राणैरेव तत्प्राणानुद्गाता यजमानस्य निस्वरति ।
तदाहुर्यज्ञायज्ञीयस्य स्तोत्रे जघनेन गार्हपत्यं दक्षिणा प्रावृत्य निपद्येत ।
तत एव स्वर्गं लोकमेतीति ।
तदु वा आहुर्विकर्षो वै तथा यज्ञस्य भवति यदसंस्थिते निपद्येत ।
यदैव सर्वं कर्म सन्तिष्ठेत यदा वशया चरेयुः ।
अथ जघनेनाहवनीयं दक्षिणा प्रावृत्य निपद्येत ।
तत एव स्वर्गं लोकमेतीति ।
असौ वा आदित्य आहवनीयः ।
एष वै स्वर्गो लोकः ।
एतस्मिन्नेव तत स्वर्गे लोकेऽन्तत प्रतितिष्ठति १६८