१६७

अथैष शुनस्कर्णस्तोमः ।

शुनस्कर्णो ह वै वार्ष्ण्यकः पुण्यकृदपापकृदास ।

स ह चकमे पुण्यमेवास्मिल्ँ लोके कृत्वापापङ्कृत्य स्वर्गं लोकं गच्छेयमिति ।

स एतं यज्ञमपश्यत् ।

तमाहरत् ।

तेनायजत ।

ततो वै स पुण्यमेवास्मिल्ँ लोके कृत्वापापङ्कृत्य स्वर्गं लोकमगच्छत् ।

स यः पुण्यकृत्कामयेत पुण्यमेवास्मिल्ँ लोके कृत्वापापङ्कृत्य स्वर्गं लोकं गच्छेयमिति स एतेन यजेत ।

पुण्यमेवास्मिल्ँ लोके कृत्वापापङ्कृत्य स्वर्गं लोकं गच्छति ।

स त्रिवृद्भवति ।

पराङिव ह वा एषः ।

स्वर्गमेव लोकमभिनिर्मृष्टो यत्त्रिवृत्स्तोमः ।

पराङेवैतेन स्वर्गं लोकमेति ।

तस्य पराञ्च्येव स्तोत्राणि भवन्ति पराञ्चि शस्त्राणि पराञ्चि पृष्ठानि पराचीर्विष्टुतयः ।

पराङेव सर्वो भवति ।

प्रवतीषु स्तुवन्ति पराञ्चमेवैनं तदमुं लोकं गमयन्ति १६७