अथैते ज्योतिर्गौरायुरिति स्तोमा भवन्ति ।
गौरायुरस्कन्दत् ।
ततो ज्योतिरजायत ।
अयं वै लोक आयुरसौ गौरिदमेवान्तरिक्षं ज्योतिः ।
तमेतं पुरस्तादकुर्वातां यथा पुत्रमेवम् ।
इतो वा अयमूर्ध्वो लोकोऽर्वाङसावमुतः ।
तदिदमेनयोः पुरस्ताज्ज्योतिः पर्यूढं तेन पश्यामः ।
तौ योगमुपप्रयन्तावन्तमभि ज्योतिर्व्युदौहताम् ।
स यथा पितरौ पुत्रं पूर्वं यन्तं पश्चादन्वियातां तादृक्तत् ।
तदेतन्मिथुनी स्तोमा भवन्ति यद्युज्यन्ते ।
मध्ये वै जायापत्योः पुत्रः शेते ।
तौ यथा मिथुनीभविष्यन्तावित्थाद्वेत्थाद्वा पुत्रं परिहरेयातां तादृगेवैतत् ।
त एत ऊनातिरिक्ता मिथुना प्रजनय स्तोमाः ।
स यः कामयेत बहुः प्रजया पशुभिः प्रजायेयेति स एतैर्यजेत ।
बहुरेव प्रजया पशुभिः प्रजायते १६६