१६५

तौ वा एतौ भूमैव स्तोमानाम् ।

तौ यौ भूमा स्तोमानां ताभ्यां बहुः प्रजया पशुभिः प्रजाया इति ।

तयोस्सह दीक्षा सह क्रयस्सहोपसदः ।

क्रीत्वा तु नानोपनह्यन्ति ।

नान्र्त्विजो भवन्ति ।

तदाहुस्संसवो वा एष यन्नानर्त्विजो भवन्ति ।

यन्न्वाव दूरात्संसूयते तदरमणीयम् ।

अथ किं यदन्तिकात्समाना एवर्त्विज स्युरिति ।

नो ह तु तथा सद्यस्सन्तिष्ठेयातां नानैवर्त्विज स्युः ।

ते वाव समानं प्रवरं प्रवृणते समानीमाशिषमाशासते ।

तस्मान्नानैवर्त्विज स्युरिति ।

अथो आहू राशिनैव पूर्वेणेष्ट्वावभृतादुदेत्य मरायाय दीक्षेतेति ।

अयमौ ह तु तथा स्याताम् ।

समानी हि यमयोर्योनिस्सह जायेते सह वर्धेते ।

तस्मात्सहैव स्यातामिति ।

ताभ्यां हैताभ्यामुग्रायुधो मानश्चित्त ईजे ।

अथो अलन्दो वात्स्यस्तयोर्ह परश्शता अन्यस्मिन्समा आसुः परश्शता अन्यस्मिन् ।

तथा बहुर्ह प्रजज्ञाते ।

बहुः प्रजया पशुभिः प्रजायते य एवं वेद १६५