१६४

अथैतौ राशि-मरायौ ।

प्रजननकामो हैताभ्यां यजेत ।

प्रजापतिर्वा अकामयत बहुः प्रजया पशुभिः प्रजायेय ।

द्वन्द्वं प्रजाः पशून्सृजेयेति ।

स एतौ यज्ञावपश्यत् ।

तावाहरत ।

ताभ्यामयजत ।

ततो वै स बहुः प्रजया पशुभिः प्राजायत ।

द्वन्द्वं प्रजाः पशूनसृजत ।

स यः कामयेत बहुः प्रजया पशुभिः प्रजायेय द्वन्द्वं प्रजाः पशून्सृजेयेति स एताभ्यां यजेत ।

बहुरेव प्रजया पशुभिः प्रजायते द्वन्द्वं प्रजाः पशून्सृजते ।

स राशिश्चतुश्चत्वारिंशो भवति रथन्तरसामा ।

ब्रह्म वै रथन्तरं क्षत्रं चतुश्चत्वारिंशः ।

ब्रह्मणा च क्षत्रेण च सयुग्भ्यां बहुः प्रजया पशुभिः प्रजाया इति ।

यद्वेवैतानि स्तोत्राणि बहुलान्युदपद्यन्त इव तस्माद्रा शिः ।

अष्टाचत्वारिंशो मरायो भवति बृहत्सामा ।

ब्रह्म वा अष्टाचत्वारिंशः क्षत्रं बृहत् ।

द्वे हि ते गायत्र्यौ यदष्टाचत्वारिंशः ।

ब्रह्मणा च क्षत्रेण च सयुग्भ्यां बहुः प्रजया पशुभिः प्रजाया इति ।

यद्वेवैतानि स्तोत्राणि ज्यायांसीव च भवन्ति तस्मान्मरायः ।

ज्यायान्ह्येव राशेर्मरायो भवति १६४