तस्य द्व्युत्तराण्युत्तरानि स्तोत्राणि भवन्ति ।
द्विपाद्वै यजमानः ।
यजमानमेव तत्स्वर्गे लोके प्रतिष्ठापयति ।
अथो आहुरिष्टके एवैते उपधीयेत इति ।
अथो द्यावापृथिवी एवाथो बृहद्र थन्तरे एवाथो अहोरात्रावेवाथो अवस्रावावेवाथो अवच्छादावेव ।
छदिरिव ह खलु वा एष यज्ञक्रतुः ।
न ह वै छदिष्मतो गृहानतिवर्षति ।
नैनं पाप्मातिवर्षति य एवं वेद ।
अथो आहुरन्विष्टीनां हेद्वा एष एको यज्ञक्रतुरिति ।
स यस्संवत्सरभृता वासंवत्सरभृता वाग्निना चित्येन यजेत स एतेन यजेत ।
सद्यो हैवास्य संवत्सर ऋतुशो मासशोऽर्धमासशो रात्रिशोऽन्विष्टो भवति ।
तद्यत्पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि संवत्सर ऋतवस्तेनर्तुशः ।
अथ यद्द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरस्तेन मासशः ।
अथ यच्चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरस्तेनार्धमासशः ।
अथ यत्त्रीणि षष्टिशतानि स्तोत्र्या भवन्ति तावतीस्संवत्सरस्य रात्रयस्तेन रात्रिशः ।
सद्यो हैवास्य संवत्सरोऽन्विष्टो भवति य एवं वेद १६३