१६२

अथैष चितिस्तोमः ।

प्रजननकामो यजेत ।

तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि ।

संवत्सर ऋतवः ।

संवत्सरः प्रजननं स यः प्रजननं स मा प्रजनयादिति ।

तस्योभये स्तोमा भवन्त्ययुजश्च युग्मन्तश्च ।

एतद्वै दैव्यं मिथुनं प्रजननं यदुभये स्तोमाः ।

तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।

तस्योभे बृहद्र थन्तरे सामनी भवतः ।

एतद्वै दैव्यं मिथुनं प्रजननं यदुभे बृहद्र थन्तरे ।

तद्यद्दैव्यं मिथुनं प्रजननं तन्मा प्रजनयादिति ।

तस्य द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरः ।

संवत्सरः प्रजननं स यः प्रजननं स मा प्रजनयादिति ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरः ।

अथो आहु स्वर्गकाम एवैनेन यजेतेति ।

तस्य पृष्ठ्यस्य षडहस्य स्तोमा भवन्त्यृतवो वै पृष्ठानि ।

संवत्सर ऋतवः ।

संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्योर्ध्वा स्तोमा भवन्त्यूर्ध्वो वै स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्योभे बृहद्र थन्तरे सामनी भवत स्वर्ग्ये स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्य द्वादश स्तोत्राणि भवन्ति द्वादश मासास्संवत्सरः ।

संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै ।

तस्य चतुर्विंशति स्तुतशस्त्राणि भवन्ति चतुर्विंशत्यर्धमासस्संवत्सरः ।

संवत्सर स्वर्गो लोक स्वर्गस्यैव लोकस्य समष्ट्यै १६२