१६१

तस्य ह कल्याणो लोक आस ।

स होवाच तत कस्यायं लोक इति ।

ममेति होवाच ।

अथ हान्यो लोकः कल्याणतर आस ।

कस्यो असाविति ।

तवेति होवाच ।

स होवाच तत यत्त्वं मद्भूयो ददिवानसि भूयस्ते मदनूक्तमथ कथं तवायं लोकोऽसौ ममेति ।

स होवाच व्रतोपयोद्ध्यो वै किल पुत्रकासौ लोक आस ।

व्रतोपयोधितर एव नौ त्वमसि ।

तस्मादयं मम लोकोऽसौ तवेति ।

गच्छेति होवाच सं वावाप्स्यसि यं वाव कामं कमितासि स ते कामस्समर्धिता ।

वक्रितास्त्वेवाङ्गुलीः कुरुतादिति ।

स ह समाप ।

स ह समाप्योवाचापिपात्र एव स्यो ब्राह्मणानामस्त्विति ।

स हापिपात्र एव ब्राह्मणानामास ।

ततो ह वा इदमर्वाचीनमार्जिश्वना अपिपात्राः १६१