१६०

तं ब्रह्मणे ददाति ।

ब्रह्मणो ह्येवैकदक्षिणा ।

तदाहुर्हुतो देया३अहुता३इति ।

अहुत इत्याहुः ।

यातयामेव वै तथा स्याद्यद्धुतं दद्यादिति ।

तदु वा आहुर्हुत एव देयः ।

देवानां वा एष भागः ।

को देवानां भागं दातुमर्हति ।

तस्माद्धुत एव देय इति ।

यादृगह वा अस्मिल्ँ लोकेऽन्नं ददाति तादृगस्यामुष्मिल्ँ लोकेऽन्नं भवति ।

एतदु ह वा अमुष्मिल्ँ लोके परममन्नाद्यं यत्सोमपीथः ।

एषा हैवास्य सोमाहुतिरमुष्मिल्ँ लोकेऽन्नं भवति ।

ऋतं सत्यं वदन्तो भक्षयन्ति ।

ऋतेन हि ते तां सत्येनान्वविन्दन् ।

ऋतममृतमित्याह ।

ऋतेन हि ते तदमृतमन्वविन्दन् ।

ओ यि ज्वरा ओयि जूहेति सामनिधने भवतो वाचस्सत्ये ।

वाचो हि ते तां सत्येनान्वविन्दन् ।

तेन हैतेनाथोदिवो गार्ग्य ईजे केशी दार्भ्य ऋजिश्वा वातवात इति ।

स हर्जिश्वा वातवातोऽवतताम ।

तमु ह वृषशुष्मेण कुमारेणार्जिश्वनेनाक्ताक्षेणोपनिषेदुर्यद्ययमु रिष्यत्यनेनेदं समापयिष्याम इति ।

स ह तताम ।

स ह तान्तः परं लोकं जगाम ।

स हामुष्मिल्ँ लोके पितरमाजगाम १६०