तस्यापश्च घृतं च व्रतम् ।
अशरीरा वा आपोऽशरीरं घृतमशरीरा स्वधा ।
अशरीरेणाशरीरां स्वधामवरुणधामहा इति ।
एतावच्छो व्रतयति ।
एतावती वै पुरुषस्य मात्रा नेत्पुरुषमतिव्रतयानीति ।
अथो हैतत्पर्वश एवात्मनोऽङ्गानि प्रतिसन्दधाति ।
सर्पिष्मानन्तरेण भवति समष्ट्यै ।
सप्तदशस्तोमो भवति ।
प्रजापतिर्वै सप्तदशः ।
प्रजापतिर्नष्टस्यानुवेत्ता ।
स यो नष्टस्यानुवेत्ता तेनेमां स्वधामनुविन्दामेति ।
तस्योभे बृहद्र थन्तरे साम्नी भवतो यद्यस्मिल्ँ लोके रथन्तरेणानुविन्दाम यद्यन्तरिक्षे वामदेव्येन यद्यमुष्मिल्ँ लोके बृहतेति ।
तस्यौदुम्बरस्सोमचमसो दक्षिणा भवत्यूर्ग्वा अन्नमुदुम्बर ऊर्ज एवान्नाद्यस्यावरुद्ध्यै ।
अथो अशरीरो वै सोमोऽशरीरा स्वधाशरीरेणाशरीरां स्वधामवरुणधामहा इति १५९