१५८

अथैष ऋतपेयः ।

देवेभ्यो वा ऊर्गन्नाद्यमुदक्रामत् ।

सोमाहुतिर्ह वा एभ्यस्सोच्चक्राम ।

सो एव विराट् ।

ते देवा अब्रुवन्नेतेमां विराजमन्विच्छामेति ।

ते तत्पोऽतप्यन्त ।

त एतां विराजं यज्ञमपश्यन् ।

तमाहरन्त ।

तमभ्यदीक्षन्त ।

त एकमहर्नाश्नन् ।

तस्यै नियानमन्वपश्यन् ।

तेऽब्रुवन्भूयो न्वेव तपस्तप्यामहा इति ।

ते द्वितीयमहर्नाश्नन् ।

तस्यै घोषमुपाशृण्वन् ।

तेऽब्रुवन्भूयो न्वेव तपस्तप्यामहा इति ।

ते तृतीयमहर्नाश्नन् ।

तां परापश्यन्यथा महान्तं गिरिमुदीक्षितं यथा वा महदभ्रमेवम् ।

तामभिक्राममपक्राममभ्यत्सरन् ।

य उ ह वै मृगं पराङेवाभित्सरति नैनं स गृह्णाति ।

अथ य एनमभिक्राममपक्राममभित्सरति स एवैनं गृह्णाति ।

तां दशमेनैवाह्नावरुन्धत ।

दशाक्षरा विराट् ।

अन्नं विराट् ।

विराज एवान्नाद्यस्यावरुद्ध्यै १५८