\तावेव सिंहावभवताम् ।
यदक्षिभ्यां तौ शार्दूलौ यत्कर्णाभ्यां तौ वृकौ वैलूषौ यदुपपक्षाभ्यां तावपाष्टिहौ ।
तस्मादेते वयसां वीर्यावत्तराः ।
इन्द्रो ह्येतेषामाजानम् ।
अथ यदवागियाय तदिदं क्षुद्रं श्वापदं बभूव ।
स ह विषिक्तश्शिश्ये ।
अपि ह तृणैरभिविलूढ आस ।
तं होचुः क्वेवासि क्वेव त्वा भिषज्याम इति ।
तस्मादिदमप्येतर्हि उपतापिनं पृच्छन्ति क्वेव ते रुजति क्वेव ते भिषज्याम इति ।
स ह तृणान्यभिपरिदिशन्नुवाचेदमिवैव माभितोऽस्मीदमिवैव माभितो भिषज्यतेति ।
तदग्निमब्रुवन्निदं दहेति ।
तदग्निरदहत् ।
तत्पर्जन्यमब्रुवन्निदमभि वर्षेति ।
तत्पर्जन्योऽभ्यवर्षत् ।
तत्कल्याण्योषधयोऽजायन्त ।
ता धेनूभिराधयन् ।
तत्पयोऽदुहन् ।
त एतं यज्ञमपश्यन् ।
तमाहरन् ।
तेनैनमयाजयन् ।
तस्य प्रतिधुक्प्रातस्सवनेऽवानयन् ।
प्रतीव वा अनेनाधायीति तस्मात्प्रतिधुक् ।
श्रितं माध्यन्दिने सवनेऽश्रेष्टेव वा अनेनेति तस्माच्छ्रितम् ।
दधि तृतीयसवनेऽदाधीव वा अनेनेति तस्माद्दधि ।
स यथा च ह पुर आसातितरां ह तत आस ।
स यस्सोमवामी वा सोमातिपवितो वा स्यात्स एतेन यजेत ।
यथा च ह पुरा भवत्यतितरां ह ततो भवति ।
तस्मादु ह सोमवामिनं वा सोमातिपवितं वा न परिचक्षीत ।
इन्द्र ह्यपि तथास १५७