\शश्वद्धैनं नाहनिष्यत् ।
तमयमिन्द्रं सोमो राजा पीतोऽनुपहूतोऽहिनोत् ।
तस्य ह सर्वेभ्य एव छिद्रे भ्यः प्रेयाय मुखादेव न ।
तस्मादु ह भिषज्य आस ।
तस्य यदवागियाय सैव सुरावारिटका बभूव ।
यच्छिश्नात्सा परिस्रुक् ।
त्रिर्निरष्ठीवत् ।
तद्यत्प्रथमं निरष्ठीवत्तदेव कर्कन्ध्वभवद्यद्द्वितीयं तद्बदरं यत्तृतीयं तत्क्वलम् ।
तस्मादेतेषामन्नं चैव रसाः ।
खाट्कृत्य चतुर्थं निरष्ठीवत् ।
तदेवाम्रमभवत् ।
तमेवं सन्तं देवा अभितो निषेदुः ।
अयं न एको वीरोऽभूत् ।
स इत्थं न्यगात् ।
क्व भवाम इति ।
स होवाच न वै विद्म यत्र भूमेति ।
किमिति ।
चुक्षूषामि वा इति ।
अथ ह स्म ततः पुरा क्षुत्वैव म्रियन्ते ।
तं होचुः क्षुहि जीवेति त्वा वक्ष्याम इति ।
स ह चुक्षाव ।
तं ह जीवेत्यूचुः ।
स ह जिजीव ।
तस्मादिदमप्येतर्हि चुक्ष्वांसमाहुर्जीवेति ।
तस्मादु यमेव मन्येत तं चुक्ष्वांसं ब्रूयाज्जीवेति तस्य यन्नस्त इयाय १५६